प्रश्न 1.
एकपदेन उतरं लिखत
(क) बुद्धिमती कुत्र व्याघ्र ददर्श?
(ख) भामिनी कया विमुक्ता?
(ग) सर्वदा सर्वकार्येषु का बलवती?
(घ) व्याघ्रः कस्मात् विभेति?
(ङ) प्रत्युत्पन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
उत्तर:
(क) गहनकानने
(ख) निजबुद्ध्या
(ग) बुद्धिः
(घ) मानुषात्
(ङ) जम्बुकम्
प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) बुद्धिमती केन उपेता पितुर्गृह प्रति चलिता?
(ख) व्याघ्रः किं विचार्य पलायित:? ।
(ग) लोके महतो भयात् कः मुच्यते?
(घ) जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
(ङ) बुद्धिमती शृगालं किम् उक्तवती?
उत्तर:
(क) बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(ख) ‘इयम् काचित् व्याघ्रमारी’ इति विचार्य व्याघ्रः पलायितः।
(ग) लोके महतो भयात् बुद्धिमान् मुच्यते।
(घ) “भवान् कुतः भयात् पलायितः।” इति वदन् जम्बुक: व्याघ्रस्य उपहासं करोति।
(ङ) बुद्धिमती शृगाल उक्तवती, “त्वया मह्यं पुरा व्याघ्रत्रयं दतम्। विश्वास्य अद्य एकम् आनीय कथं यासि इति अधुना वद।” |
प्रश्न 3.
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
(ख) बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
(ग) व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत् ।
(घ) त्वं मानुषात् बिभेषि।
(ङ) पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
उत्तर:
(क) तत्र कः नाम राजपुत्रः वसति स्म?
(ख) बुद्धिमती कया पुत्रौ प्रहृतवती?
(ग) कम् दृष्ट्वा धूर्तः शृगालः अवदत्?
(घ) त्वं कस्मात् विभेषि?
(ङ) पुरा त्वया कस्मै व्याघ्रत्रयं दत्तम्?
प्रश्न 4.
अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत
(क) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः।
(ख) प्रत्युत्पन्नमतिः सा शृगालं आक्षिपन्ती उवाच ।
(ग) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(घ) मार्गे सा एकं व्याघ्रम् अपश्यत्।
(ङ) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।
(च) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
(छ) ‘त्वं व्याघ्रत्रयम् आनेतुं प्रतिज्ञाय एकमेव आनीतवान् ।
(ज) गलबद्धशृगालकः व्याघ्रः पुनः पलायितः ।
उत्तर:
(क) बुद्धिमती पुत्रद्वयेन उपेता पितुर्गृहं प्रति चलिता।
(ख) मार्गे सा एकं व्याघ्र अपश्यत् ।
(ग) व्याघ्रं दृष्ट्वा सा पुत्रौ ताडयन्ती उवाच-अधुना एकमेव व्याघ्रं विभज्य भुज्यताम्।
(घ) व्याघ्रः व्याघ्रमारी इयम् इति मत्वा पलायित: ।
(ङ) जम्बुककृतोत्साहः व्याघ्रः पुनः काननम् आगच्छत्।
(च) प्रत्युत्पन्नमतिः सा शृगालम् आक्षिपन्ती उवाच।
(छ) ‘त्वं व्याघ्रत्रयम् आनयितुम्’ प्रतिज्ञाय एकमेव आनीतवान्।
(ज) गलबद्धशृगालक: व्याघ्रः पुनः पलायितः।
प्रश्न 5.
सधिं/सन्धिविच्छेदं वा कुरुत–
उत्तर:
(क) पितुर्गृहम् = पितुः + गृहम्
(ख) एकैक: = एक + एकः
(ग) अन्योऽपि = अन्य: + अपि
(घ) इत्युक्त्वा = इति + उक्त्वा
(ङ) यत्रास्ते = यत्र + आस्ते
प्रश्न 6.
अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत
(क) ददर्श (दर्शितवान्, दृष्टवान्)
(ख) जगाद (अकथयत्, अगच्छत्)
(ग) ययौ (याचितवान्, गतवान्)
(घ) अत्तुम् (खादितुम्, आविष्कर्तुम्)
(ङ) मुच्यते (मुक्तो भवति, मग्नो भवति)
(च) ईक्षते (पश्यति, इच्छति)
उत्तर:
(क) ददर्श – दृष्टवान्
(ख) जगाद – अकथयत्
(ग) ययौ – गतवान्
(घ) अत्तुम् – खादितुम्
(ङ) मुच्यते – मुक्तो भवति
(च) ईक्षते – पश्यति
प्रश्न 7.
(अ) पाठात् चित्वा पर्यायपदं लिखत
(क) वनम् – …………..
(ख) शृगालः – …………..
(ग) शीघ्रम् – …………..
(घ) पत्नी – …………..
(ङ) गच्छसि – …………..
उत्तर:
(क) वनम् – काननम्
(ख) शृगालः – जम्बुकः
(ग) शीघ्रम् – सत्वरम्
(घ) पत्नी – भार्या
(ङ) गच्छसि – यासि
(आ) पाठात् चित्वा विपरीतार्थकं पदं लिखत –
(क) प्रथमः – …………..
(ख) उक्त्वा – …………..
(ग) अधुना – …………..
(घ) अवेला – …………..
(ङ) बुद्धिहीना – …………..
उत्तर:
(क) द्वितीयः
(ख) श्रुत्वा
(ग) पश्चात्
(घ) वेला
(ङ) बुद्धिमती